Pages

Nava Graha Stotram in Sanskrit

Nava Graha Stotram – Sanskrit Lyrics (Text)

Nava Graha Stotram – Sanskrit Script

नवग्रह ध्यानश्लोकम्
आदित्याय च सोमाय मङ्गलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥

रविः
जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् ।
तमोरियं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ॥

चन्द्रः
दथिशज्ञ तुषाराभं क्षीरार्णव समुद्भवम् ।
नमामि शशिनं सोमं शम्भोर्-मकुट भूषणम् ॥

कुजः
धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ।
कुमारं शक्ति हस्तं तं मङ्गलं प्रणमाम्यहम् ॥

बुधः
प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।
सौम्यं सत्व गुणोपेतं तं बुधं प्रणमाम्यहम् ॥

गुरुः
देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् ।
बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥

शुक्रः
हिमकुन्द मृणालाभं दैत्यानं परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥

शनिः
नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ॥

राहुः
अर्थकायं महावीरं चन्द्रादित्य विमर्धनम् ।
सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ॥

केतुः
फलास पुष्प सङ्काशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥

फलश्रुतिः
इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः ।
दिवा वा यदि वा रात्रौ विघ्न शान्तिर्भविष्यति ॥

नर नारी नृपाणां च भवे द्दुस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ॥

ग्रह नक्षत्रजाः पीडा स्तस्कराग्नि समुद्भवाः ।
तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते नसंशयः ॥

No comments:

Post a Comment